"अपित्" इति।
किमयं प्रसज्यप्रतिषेधः? उत पर्युदासः? किञ्चात्र? पूर्वस्मिन् पक्षे लोडुत्तमपुरुषस्यैकवचनस्य "आडुत्तमस्य पिच्च"
३।४।९२ इत्याटि पिति कृते तुदानीत्यत्राड्()विकरणाकारयोः पिदपितोरेकादेशः परं प्रति "अन्तादिवच्च"
६।१।८२ इत्यादिद्भावात् पिद्ग्रहणेन गृह्रते इति पित्त्वम् , पित्त्वे च सत्यपिदिति ङित्त्वप्रतिषेधः स्यात्, ततश्च धातोर्गुणः प्रसज्येत। इतरत्र तु पक्षे "च्यवन्ते, प्लवन्ते" इत्यत्र शबन्तादेशाकारयोः पिदपितोर्य एकादेशस्तस्य पितोऽन्यत्वात् ङित्त्वमपाद्येत,
ततश्च धातोर्गुणो न प्राप्नोति? पितोऽन्यत्वं त्वेकादेशस्य सर्वं प्रत्यादिवत्त्वात् परग्रहणेन ग्रहणात्, उच्यते,यथेच्छसि तथैवास्तु, उभयथाप्यदोषः। पूर्वत्र तावददोषः; यस्मादपितोरेव तुदानीत्यत्रैकादेशः, न पिदपितोः। तथा हि-- "आडुत्तमस्य पिच्च"
३।४।९२ लोडुत्तमपुरुषस्यैव पित्त्वं विधीयते, न त्वाटः। इतरत्राप्यदोषः, यस्मादपिदित्यनेन सार्वधातुकं विशिष्यते-- पितोऽन्यत् सार्वधातुकमपिदिति। न चान्तशब्दाकारः सार्वधातुकम्,
किं तर्हि? तदेकदेशः। यच्चात्र सार्वधातुकं न च तेन सहैकादेशः, येन सहैकादेशो न च तत्सार्वधातुकम्;तेन यद्यप्ययमेकादेशः पितोऽन्यः;
तथापि सार्वधातुकं न भवतीति तत्कुतो ङित्त्वस्य प्रसङ्गः? अथ वा भवतु ङित्तवम्,
सत्यपि तस्य ङित्त्वे तस्मिन् नास्ति गुणाभावप्रसङ्गः? यस्मात् "वार्णादाङ्गं बलीयः" (व्या।प।३९) इति वचनादेशाद्धि प्रागेव "च्यवन्ते, प्लवन्ते" इत्यत्र गुणेन भवितव्यम्।
"कुरुतः" इति। ततो ङित्त्वे सति विकरणस्य गुणो न भवति। करोतेरस्य "अत उत् सार्वधातुके"
६।४।१३० इत्युत्त्वं भवति। तत्र हि "गमहन"
६।४।९८ इत्यादिसूत्रात् क्ङितीत्यनुवर्तते॥